श्रीसरस्वतीस्तोत्रम्

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥1॥

आशासु राशीभवदङ्गवल्ली-

          भासैव दासीकृतदुग्धसिन्धुम् ।

मन्दस्मितैर्निन्दितशारदेन्दुं

          वन्देऽरविन्दासनसुन्दरि त्वाम् ॥2॥

शारदा शारदाम्भोजवदना वदनाम्बुजे ।

सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥3॥

सरस्वतीं च तां नौमि वागाधिष्ठातृदेवताम् ।

देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ॥4॥

पातु नो निकषग्रावा मतिहेम्नः सरस्वती ।

प्राज्ञेतरपरिच्छेदं वसचैव करोति या ॥5॥

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।

हस्ते स्फटिकमालिकां च दधतीं पद्मासने संस्थितां

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥6॥

वीणाधरे विपुलमङ्गलदानशीले

भक्तार्तिनाशिनि विरञ्चिहरीशवन्द्ये ।

कीर्तिप्रदेऽखिलमनोरथदे महार्हे

          विद्याप्रदायिनि सरस्वति नौमि नित्यम् ।।7॥

श्वेताब्जपूर्णविमलासनसंस्थिते हे

          श्वेताम्बरावृतमनोहरमञ्जुगात्रे ।

उद्यन्मनोज्ञसितपङ्कजमञ्जुलास्ये

          विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥8॥

मातस्त्वदीयपदपङ्कजभक्तियुक्ता

          ये त्वां भजन्ति निखिलानपरान्विहाय ।

ते निर्जरत्वमिह यान्ति कलेवरेण

भूवह्निवायुगगनाम्बुविनिर्मितेन ॥9॥

मोहान्धकारभरिते हृदये मदीये

          मातः सदैव कुरु वासमुदारभावे ।

स्वीयाखिलावयवनिर्मलसुप्रभाभिः

          शीघ्रं विनाशय मनोगतमन्धकारम् ॥10॥

ब्रह्मा जगत् सृजति पालयन्तीन्दिरेशः

          शम्भुर्विनाशयति देवि तव प्रभावैः।

न स्यात्कृपा यदि तव प्रकटप्रभावे

न स्युः कथञ्चिदपि ते निजकार्यदक्षाः ॥11॥

लक्ष्मीर्मेधा धरा पुष्टिगौरी तुष्टिः प्रभा धृतिः ।

एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति ॥12॥

सरस्वत्ये नमो नित्यं भद्रकाल्यै नमो नमः ।

वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च ॥13॥

सरस्वति महाभागे विद्ये कमललोचने ।

विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ॥14॥

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत् ।

तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥15॥

॥इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम्॥